
132
PunjabiHindiIndian
तस्य स्थित्वा कथमपि पुरः कौतुकाधान-हेतोः अन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ । मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः कण्ठाश्लेष-प्रणयिनि जने किं पुनर्दूरसंस्थे ॥ १.३॥ प्रत्यासन्ने नभसि दयिता-जीवितालम्बनार्थी जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् । स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ १.४॥ धूमज्योतिः सलिलमरुतां संनिपातः क्व मेघः संदेशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः । इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे कामार्ता हि प्रकृति-कृपणाश्चेतनाचेतनेषु ॥ १.५॥ जातं वंशे भुवनविदिते पुष्करावर्तकानां जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः । तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहं याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ १.६॥ संतप्तानां त्वमसि शरणं तत् पयोद प्रियायाः संदेशं मे हर धनपतिक्रोध-विश्लेषितस्य । गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां बाह्योद्यान-स्थितहर-शिरश्चन्द्रिका-धौतहर्म्या ॥ १.७॥ त्वामारूढं पवन-पदवीमुद्गृहीतालकान्ताः प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसत्यः । (प्रत्ययादाश्वसन्त्यः) कः संनद्धे विरहविधुरां त्वय्युपेक्षेत जायां न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः ॥ १.८॥ मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां वामश्चायं नदति मधुरं चातकस्ते सगन्धः । गर्भाधान-क्षणपरिचयान्नूनमाबद्ध-मालाः सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ १.९॥